Patanjali's authoritative treatise on Yoga
॥ Yog Sutra ॥
With Sacred text and its Gujarati translation
<< HOME | ADHYATMA | AUDIO | BOOKS | BHAJANS | KAVITA | RAMAYAN | MAHABHARAT | UPANISHAD | SARAL GITA | MORE >>
પાતંજલ યોગદર્શન
Kaivalya Pada
॥ चतुर्थः कैवल्यपादः ॥
[ Click on the verses to explore ]
०१. जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ।
०२. जात्यन्तरपरिणामः प्रकृत्यापूरात् ।
०३. निमित्तम् अप्रयोजकं प्रकृतीनां । वरणभेदस्तु ततः क्षेत्रिकवत् ।
०४. निर्माणचित्तान्यस्मितामात्रात् ।
०५. प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ।
०६. तत्र ध्यानजम् अनाशयम् ।
०७. कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ।
०८. ततस्तद्विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ।
०९. जातिदेशकालव्यवहितानाम् अप्यानन्तर्यं । स्मृतिसंस्कारयोः एकरूपत्वात् ।
१०. तासाम् अनादित्वं चाशिषो नित्यत्वात् ।
११. हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ।
१२. अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ।
१३. ते व्यक्तसूक्ष्मा गुणात्मानः ।
१४. परिणामैकत्वाद् वस्तुतत्त्वम् ।
१५. वस्तुसाम्ये चित्तभेदात् तयोर्विभक्तः पन्थाः ।
१६. न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ।
१७. तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ।
१८. सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ।
१९. न तत् स्वाभासंदृश्यत्वात् ।
२०. एकसमये चोभयानवधारणम् ।
२१. चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ।
२२. चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ।
२३. द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ।
२४. तदसंख्येयवासनाचित्रम् अपि परार्थं संहत्यकारित्वात् ।
२५. विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ।
२६. तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।
२७. तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।
२८. हानम् एषां क्लेशवदुक्तम् ।
२९. प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ।
३०. ततः क्लेशकर्मनिवृत्तिः ।
३१. तदा सर्वावरणमलापेतस्य ज्ञानस्याऽनन्त्याज्ज्ञेयम् अल्पम् ।
३२. ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ।
३३. क्षणप्रतियोगी परिणामापरान्तनिग्रार्ह्यः क्रमः ।
३४. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिष्ठा वा चितिशक्तिरेति ।
॥ इति पतञ्जलि विरचिते योगसूत्रे चतुर्थः कैवल्यपादः ॥
| Home | Adhyatma | Shri Yogeshwarji | Maa Sarveshwari | SarvaMangal | Swargarohan | Site Map | News |
|Audio/video| Books | Contacts | Download | FAQ | Feedback | Glossary | Guest Book | Links | Photo Gallery | Search | What's New? |